Vol. 8, Issue 2, Part G (2022)
प्रमाणविषयकनैयायिकदृष्टिपर्यालोचनम्
प्रमाणविषयकनैयायिकदृष्टिपर्यालोचनम्
Author(s)
डॉ. रघुनाथो नेपालः
Abstract
प्रमाणं विना लोके शास्त्रे च न किमपि निश्चेतुं शक्यते। अतः प्रमाकरणं प्रमाणं भवतीत्युच्यते। तच्च प्रमाणं कीदृशं कतिविधञ्च सत्प्रमां जनयति इत्यत्रास्ति वैमत्यं विदुषाम्। तत्र केचन प्रत्यक्षैकप्रमाणवादिनः, प्रत्यक्षानुमानप्रमाणद्वयवादिनः, केचन ततोऽधिकत्रिचतुरादिप्रमाणवादिनश्च सन्ति। नैयायिकैः प्रत्यक्षानुमानोपमानशब्दाख्यानि चत्वारि प्रमाणानि स्वीक्रियन्ते। ततो न्यूनत्वमधिकत्वं वा प्रमाणसंख्याया निर्धारणमशक्यमिति तन्मतम्। प्रमाणसामान्यस्य तद्भेदप्रत्यक्षादीनाञ्च स्वरूपं लक्षणञ्च नैयायिकैः कथं निष्कृष्टमस्ति। एवञ्चतुर्भ्योऽधिका अर्थापत्तिः, अनुपलब्धिः, एतिह्यम्, सम्भवः, चेष्टा चापि लोकव्यवहारे शास्त्रे च प्रमाणत्वेन व्यवह्रियन्ते, एतैर्विषया निर्धायन्ते च। अत एव मीमांसकादिभिरन्यैः शास्त्रकारैरेतेषामपि स्वतन्त्रतया प्रमाणत्वमङ्गीकृतमस्ति। तेषामर्थापत्त्यादीनां नैयायिकैः प्रमाणत्वं स्वीक्रियते न वा ? यदि न स्वीक्रियते तर्हि कथं निर्वाहः। अतश्चानुसन्धानात्मकेनालेखेनानेन नैयायिकाभिमतानि प्रमाणानि पर्यालोच्य अर्थापत्त्यादिविषये या तेषामवधारणा वर्तते तदत्र प्रदर्शितमस्ति। एवञ्च चतुर्भ्यः प्रमाणेभ्योऽधिकप्रमाणानामर्थापत्त्यादीनां स्वरूपं प्रदर्श्य तेषामप्येतेषु चतुर्ष्वेवान्तर्भावो नैयायिकैः कथं साधितोस्तीति तत्तद्ग्रन्थाध्ययनपूर्वकमत्र निश्चितमस्ति। एतेषां समेषां मतानि सम्यगवलोक्य नैतावत्केनापि एकत्र विषयो निर्धारितो दृष्टिगोचरो जातः। अतश्चायं प्रयत्नः, समेषां मतानि एकत्रैवात्र प्रदर्श्य विषयनिर्धारणार्थम्। मन्ये लघुशोधकार्येणानेन अस्मिन् विषये नैयायिकानां दृष्टिः सम्यगवगन्तुं शक्येत। विशेषतो न्यायशास्त्राध्येतृणां छात्राणां कृते महान् उपकारो भवेदिति।
How to cite this article:
डॉ. रघुनाथो नेपालः. प्रमाणविषयकनैयायिकदृष्टिपर्यालोचनम्. Int J Appl Res 2022;8(2):467-481.